(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.100. अध्यायः 100
Mahabharata - Vana Parva - Chapter Topics
इन्द्रेण वृत्रहननम् ॥ 1 ॥ ततो देवगणाभिपीडनात्समुद्रं प्रविष्टैदैत्यैर्जगद्विनाशनाध्यवसायः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

लोमश उवाच। 3-100-0x(2039)(20035)
ततः स वज्री बलभिद्दैवतैरभिरक्षितः।
आससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥ 3-100-1(20036)
कालकेयैर्महाकायै समन्तादभिरक्षितम्।
समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ॥ 3-100-2(20037)
ततो युद्धं समभवद्देवानां दानवैः सह।
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ॥ 3-100-3(20038)
उद्यतप्रतिविद्धानां स्वङ्गानां वीरबाहुभिः।
आसीत्सुतुमुः शब्दः शरीरेष्वभिपात्यताम् ॥ 3-100-4(20039)
शिरोभिः प्रपतद्भिश्चाप्यन्तरिक्षान्महीतलम्।
तालैरिव महाराज वृन्ताद्भ्रष्टैरदृश्यत ॥ 3-100-5(20040)
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः।
त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ॥ 3-100-6(20041)
तेषां वेगवतां वेगं सहितानां प्रधावताम्।
न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ॥ 3-100-7(20042)
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः।
वृत्रे विवर्धमाने च कश्मलं महदाविशत् ॥ 3-100-8(20043)
तं शक्तं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः।
जगाम शरणं शीघ्रं तं तु नारायणं प्रभुम् ॥ 3-100-9(20044)
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः।
स्वतेजो व्यदधच्छक्रे बलमस्य विवर्धयन् ॥ 3-100-10(20045)
विष्णुना गोपितं शक्रं दृष्ट्वादेवगणास्ततः।
स्वं स्वंतेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥ 3-100-11(20046)
स समाप्यायितः शक्रो विष्णुना दैवतैः सह।
ऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥ 3-100-12(20047)
ज्ञात्वा बलस्थं त्रिदशाधिपं तु
ननाद वृत्रो महतो निनादान्।
तस् प्रणादेन धरा दिशश्च
खं द्यौर्नगाश्चापि चचाल सर्वम् ॥ 3-100-13(20048)
ततो महेन्द्रः परमाभितप्तः
श्रुत्वा रवं घोररूपं महान्तम्।
भये निमग्नस्त्वरितो मुमोच
वज्रं महत्तस्य वधाय राजन् ॥ 3-100-14(20049)
स चक्रवज्राभिहतः पपात
महासुरः काञ्चनमाल्यधारी।
यथा महाशैलवरः पुरस्ता-
त्स मन्दरो विष्णुकराद्विमुक्तः ॥ 3-100-15(20050)
तस्मिन्हते दैत्यवरे भयार्तः
शक्रः प्रदुद्राव सरः प्रवेष्टुम्।
वज्रं न मेने स्वकराद्विमुक्तं
वृत्रं भयाच्चापि हतं न मेने ॥ 3-100-16(20051)
सर्वे च देवा मुदिताः प्रहृष्टा
महर्षयश्चन्द्रमभिष्टुवन्तः।
`वृत्रं हतं संददृशुः पृथिव्यां
वज्राहतं शैलमिवावदीर्णम् ॥ 3-100-17(20052)
सर्वांश्च दैत्यांस्त्वरिताः समेत्य
जघ्नुः सुरा वृत्रवधाभितप्तान्।
ते वध्यमानास्त्रिदशैः समेतैः
समुद्रमेवाविविशुर्भयार्ताः ॥ 3-100-18(20053)
प्रविश्य चैवोदधिमप्रमेयं
झषाकुलं नक्रसमाकुलं च।
तदा स्म मन्त्रं सहिताः प्रचक्रु-
स्त्रैलोक्यनाशार्थमभिप्रयत्नात् ॥ 3-100-19(20054)
तत्रस्म केचिन्मतिनिश्चयज्ञा-
स्तांस्तानुपयानुपवर्णयन्ति।
तेषां तु तत्रक्रमकालयोगा-
द्धोरा मतिश्चिन्तयतां बभूव ॥ 3-100-20(20055)
ये सन्ति विद्यातपसोपपन्ना-
स्तेषां विनाशः प्रथमं तु कार्यः।
लोका हि सर्वे तपसा ध्रियन्ते
तस्मात्त्वरध्वं तपसः क्षयाय ॥ 3-100-21(20056)
येसन्ति केचिच्च वसुंधरायां
तपस्विनो धर्मविदश् तज्ज्ञाः।
तेषां वधः क्रियतां क्षिप्रमेव
तेषु प्रनष्टेषु जगत्प्रनष्टम् ॥ 3-100-22(20057)
एवं हि सर्वे गतबुद्धिभावा
जगद्विनाशे परमप्रहृष्टाः।
दुर्गं समाश्रित्य महोर्मिमन्तं
रत्नाकरं वरुणस्यालयं स्म ॥ 3-100-23(20058)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि शततमोऽध्यायः ॥ 100 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-100-1 रोदसी द्यावापृथिव्यौ ॥ 3-100-5 तालैस्तालफलैः ॥ 3-100-10 व्यदधत् निहितवान् ॥ 3-100-13 बलस्थं बलवन्तम् ॥ 3-100-16 हतमपि वृत्रं भयात् न हतमिव मेने ॥ 3-100-21 ध्रियन्ते जीवन्ति ॥ 3-100-23 वृद्धिभावाः प्राप्तधीनिश्चयाः। वरुणस्यालयं समुद्रम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.