|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.100. अध्यायः 100
Mahabharata - Vana Parva - Chapter Topics
इन्द्रेण वृत्रहननम् ॥ 1 ॥ ततो देवगणाभिपीडनात्समुद्रं प्रविष्टैदैत्यैर्जगद्विनाशनाध्यवसायः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-100-0x(2039)(20035)
ततः स वज्री बलभिद्दैवतैरभिरक्षितः।
आससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥ 3-100-1(20036)
कालकेयैर्महाकायै समन्तादभिरक्षितम्।
समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ॥ 3-100-2(20037)
ततो युद्धं समभवद्देवानां दानवैः सह।
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ॥ 3-100-3(20038)
उद्यतप्रतिविद्धानां स्वङ्गानां वीरबाहुभिः।
आसीत्सुतुमुः शब्दः शरीरेष्वभिपात्यताम् ॥ 3-100-4(20039)
शिरोभिः प्रपतद्भिश्चाप्यन्तरिक्षान्महीतलम्।
तालैरिव महाराज वृन्ताद्भ्रष्टैरदृश्यत ॥ 3-100-5(20040)
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः।
त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ॥ 3-100-6(20041)
तेषां वेगवतां वेगं सहितानां प्रधावताम्।
न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ॥ 3-100-7(20042)
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः।
वृत्रे विवर्धमाने च कश्मलं महदाविशत् ॥ 3-100-8(20043)
तं शक्तं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः।
जगाम शरणं शीघ्रं तं तु नारायणं प्रभुम् ॥ 3-100-9(20044)
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः।
स्वतेजो व्यदधच्छक्रे बलमस्य विवर्धयन् ॥ 3-100-10(20045)
विष्णुना गोपितं शक्रं दृष्ट्वादेवगणास्ततः।
स्वं स्वंतेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥ 3-100-11(20046)
स समाप्यायितः शक्रो विष्णुना दैवतैः सह।
ऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥ 3-100-12(20047)
ज्ञात्वा बलस्थं त्रिदशाधिपं तु
ननाद वृत्रो महतो निनादान्।
तस् प्रणादेन धरा दिशश्च
खं द्यौर्नगाश्चापि चचाल सर्वम् ॥ 3-100-13(20048)
ततो महेन्द्रः परमाभितप्तः
श्रुत्वा रवं घोररूपं महान्तम्।
भये निमग्नस्त्वरितो मुमोच
वज्रं महत्तस्य वधाय राजन् ॥ 3-100-14(20049)
स चक्रवज्राभिहतः पपात
महासुरः काञ्चनमाल्यधारी।
यथा महाशैलवरः पुरस्ता-
त्स मन्दरो विष्णुकराद्विमुक्तः ॥ 3-100-15(20050)
तस्मिन्हते दैत्यवरे भयार्तः
शक्रः प्रदुद्राव सरः प्रवेष्टुम्।
वज्रं न मेने स्वकराद्विमुक्तं
वृत्रं भयाच्चापि हतं न मेने ॥ 3-100-16(20051)
सर्वे च देवा मुदिताः प्रहृष्टा
महर्षयश्चन्द्रमभिष्टुवन्तः।
`वृत्रं हतं संददृशुः पृथिव्यां
वज्राहतं शैलमिवावदीर्णम् ॥ 3-100-17(20052)
सर्वांश्च दैत्यांस्त्वरिताः समेत्य
जघ्नुः सुरा वृत्रवधाभितप्तान्।
ते वध्यमानास्त्रिदशैः समेतैः
समुद्रमेवाविविशुर्भयार्ताः ॥ 3-100-18(20053)
प्रविश्य चैवोदधिमप्रमेयं
झषाकुलं नक्रसमाकुलं च।
तदा स्म मन्त्रं सहिताः प्रचक्रु-
स्त्रैलोक्यनाशार्थमभिप्रयत्नात् ॥ 3-100-19(20054)
तत्रस्म केचिन्मतिनिश्चयज्ञा-
स्तांस्तानुपयानुपवर्णयन्ति।
तेषां तु तत्रक्रमकालयोगा-
द्धोरा मतिश्चिन्तयतां बभूव ॥ 3-100-20(20055)
ये सन्ति विद्यातपसोपपन्ना-
स्तेषां विनाशः प्रथमं तु कार्यः।
लोका हि सर्वे तपसा ध्रियन्ते
तस्मात्त्वरध्वं तपसः क्षयाय ॥ 3-100-21(20056)
येसन्ति केचिच्च वसुंधरायां
तपस्विनो धर्मविदश् तज्ज्ञाः।
तेषां वधः क्रियतां क्षिप्रमेव
तेषु प्रनष्टेषु जगत्प्रनष्टम् ॥ 3-100-22(20057)
एवं हि सर्वे गतबुद्धिभावा
जगद्विनाशे परमप्रहृष्टाः।
दुर्गं समाश्रित्य महोर्मिमन्तं
रत्नाकरं वरुणस्यालयं स्म ॥ 3-100-23(20058)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि शततमोऽध्यायः ॥ 100 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-100-1 रोदसी द्यावापृथिव्यौ ॥ 3-100-5 तालैस्तालफलैः ॥ 3-100-10 व्यदधत् निहितवान् ॥ 3-100-13 बलस्थं बलवन्तम् ॥ 3-100-16 हतमपि वृत्रं भयात् न हतमिव मेने ॥ 3-100-21 ध्रियन्ते जीवन्ति ॥ 3-100-23 वृद्धिभावाः प्राप्तधीनिश्चयाः। वरुणस्यालयं समुद्रम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|